TEXT
तां केशबन्धव्यतिषक्तमल्लिकां बृहन्नितम्बस्तनकृच्छ्रमध्यमाम् ।
सुवाससं कल्पितकर्णभूषण त्विषोल्लसत्कुन्तलमण्डिताननाम् ॥ ५ ॥

वल्गुस्मितापाङ्गविसर्गवीक्षितैर् मनो हरन्तीं वनितां व्रजौकसाम् ।
अमंसताम्भोजकरेण रूपिणीं गोप्यः श्रियं द्रष्टुमिवागतां पतिम् ॥ ६ ॥