TEXT
अथ प्रविष्टः स्वगृहं जुष्टं स्वैः पूर्वराजभिः ।
अनन्ताखिलकोषाढ्यम् अनर्घ्योरुपरिच्छदम् ।
विद्रुमोदुम्बरद्वारैर् वैदूर्यस्तम्भपङ्क्तिभिः ।
स्थलैर्मारकतैः स्वच्छैर् भ्राजत्स्फटिकभित्तिभिः ।
चित्रस्रग्भिः पट्टिकाभिर् वासोमणिगणांशुकैः ।
मुक्ताफलैश्चिदुल्लासैः कान्तकामोपपत्तिभिः ।
धूपदीपैः सुरभिभिर् मण्डितं पुष्पमण्डनैः ।
स्त्रीपुम्भिः सुरसङ्काशैर् जुष्टं भूषणभूषणैः ॥ ३४ ॥