TEXT
धृतव्रतेन हि मया छन्दांसि गुरवो ऽग्नयः ।
मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ।
भारतव्यपदेशेन ह्याम्नायार्थश्च प्रदर्शितः ।
दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥ २९ ॥
मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ।
भारतव्यपदेशेन ह्याम्नायार्थश्च प्रदर्शितः ।
दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥ २९ ॥