TEXT
वृषाकपिस्तु जम्भेन महिषेण विभावसुः ।
इल्वलः सह वातापिर् ब्रह्मपुत्रैररिन्दम ।
कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह ।
बृहस्पतिश्चोशनसा नरकेण शनैश्चरः ।
मरुतो निवातकवचैः कालेयैर्वसवो ऽमराः ।
विश्वेदेवास्तु पौलोमै रुद्राः क्रोधवशैः सह ॥ ३४ ॥
इल्वलः सह वातापिर् ब्रह्मपुत्रैररिन्दम ।
कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह ।
बृहस्पतिश्चोशनसा नरकेण शनैश्चरः ।
मरुतो निवातकवचैः कालेयैर्वसवो ऽमराः ।
विश्वेदेवास्तु पौलोमै रुद्राः क्रोधवशैः सह ॥ ३४ ॥