TEXT
एतस्मिन्नन्तरे विष्णुः सर्वोपायविदीश्वरः ।
योषिद्रूपमनिर्देश्यं दधार परमाद्भुतम् ।
प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम् ।
समानकर्णाभरणं सुकपोलोन्नसाननम् ।
नवयौवननिर्वृत्त स्तनभारकृशोदरम् ।
मुखामोदानुरक्तालि झङ्कारोद्विग्नलोचनम् ।
बिभ्रत्सुकेशभारेण मालामुत्फुल्लमल्लिकाम् ।
सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम् ।
विरजाम्बरसंवीत नितम्बद्वीपशोभया ।
काञ्च्या प्रविलसद्वल्गु चलच्चरणनूपुरम् ।
सव्रीडस्मितविक्षिप्त भ्रूविलासावलोकनैः ।
दैत्ययूथपचेतःसु काममुद्दीपयन्मुहुः ॥ ४६ ॥