TEXT
श्रीबादरायणिरुवाच
इन्द्रस्त्रिभुवनैश्वर्य मदोल्लङ्घितसत्पथः ।
मरुद्भिर्वसुभी रुद्रैर् आदित्यैरृभुभिर्नृप ।
विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रितः ।
सिद्धचारणगन्धर्वैर् मुनिभिर्ब्रह्मवादिभिः ।
विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः ।
निषेव्यमाणो मघवान् स्तूयमानश्च भारत ।
उपगीयमानो ललितम् आस्थानाध्यासनाश्रितः ।
पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा ।
युक्तश्चान्यैः पारमेष्ठ्यैश् चामरव्यजनादिभिः ।
विराजमानः पौलम्या सहार्धासनया भृशम् ।
स यदा परमाचार्यं देवानामात्मनश्च ह ।
नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभिः ।
वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम् ।
नोच्चचालासनादिन्द्रः पश्यन्नपि सभागतम् ॥ ८ ॥