TEXT
तत्रोपनीतबलयो रवेर्दीपमिवादृताः ।
आत्मारामं पूर्णकामं निजलाभेन नित्यदा ।
प्रीत्युत्फुल्लमुखाः प्रोचुर् हर्षगद्गदया गिरा ।
पितरं सर्वसुहृदम् अवितारमिवार्भकाः ॥ ५ ॥
आत्मारामं पूर्णकामं निजलाभेन नित्यदा ।
प्रीत्युत्फुल्लमुखाः प्रोचुर् हर्षगद्गदया गिरा ।
पितरं सर्वसुहृदम् अवितारमिवार्भकाः ॥ ५ ॥