TEXT
श्रीशुक उवाच
अथ सर्वगुणोपेतः कालः परमशोभनः ।
यर्ह्येवाजनजन्मर्क्षं शान्तर्क्षग्रहतारकम् ॥ १ ॥
अथ सर्वगुणोपेतः कालः परमशोभनः ।
यर्ह्येवाजनजन्मर्क्षं शान्तर्क्षग्रहतारकम् ॥ १ ॥
दिशः प्रसेदुर्गगनं निर्मलोडुगणोदयम् ।
मही मङ्गलभूयिष्ठ पुरग्रामव्रजाकरा ॥ २ ॥
मही मङ्गलभूयिष्ठ पुरग्रामव्रजाकरा ॥ २ ॥
नद्यः प्रसन्नसलिला ह्रदा जलरुहश्रियः ।
द्विजालिकुलसन्नाद स्तवका वनराजयः ॥ ३ ॥
द्विजालिकुलसन्नाद स्तवका वनराजयः ॥ ३ ॥
ववौ वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः ।
अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत ॥ ४ ॥
अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत ॥ ४ ॥
मनांस्यासन्प्रसन्नानि साधूनामसुरद्रुहाम् ।
जायमाने ऽजने तस्मिन् नेदुर्दुन्दुभयः समम् ॥ ५ ॥
जायमाने ऽजने तस्मिन् नेदुर्दुन्दुभयः समम् ॥ ५ ॥