TEXT
सुतो धर्मरथो यस्य जज्ञे चित्ररथो ऽप्रजाः ।
रोमपाद इति ख्यातस् तस्मै दशरथः सखा ।
शान्तां स्वकन्यां प्रायच्छद् ऋष्यशृङ्ग उवाह याम् ।
देवे ऽवर्षति यं रामा आनिन्युर्हरिणीसुतम् ।
नाट्यसङ्गीतवादित्रैर् विभ्रमालिङ्गनार्हणैः ।
स तु राज्ञो ऽनपत्यस्य निरूप्येष्टिं मरुत्वते ।
प्रजामदाद्दशरथो येन लेभे ऽप्रजाः प्रजाः ।
चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुतः ॥ १० ॥