TEXT
कृशाश्वात्सोमदत्तो ऽभूद् यो ऽश्वमेधैरिडस्पतिम् ।
इष्ट्वा पुरुषमापाग्र्यां गतिं योगेश्वराश्रिताम् ।
सौमदत्तिस्तु सुमतिस् तत्पुत्रो जनमेजयः ।
एते वैशालभूपालास् तृणबिन्दोर्यशोधराः ॥ ३६ ॥