TEXT
श्रीशुक उवाच
एवं शप्त्वा गतो ऽगस्त्यो भगवान्नृप सानुगः ।
इन्द्रद्युम्नो ऽपि राजर्षिर् दिष्टं तदुपधारयन् ।
आपन्नः कौञ्जरीं योनिम् आत्मस्मृतिविनाशिनीम् ।
हर्यर्चनानुभावेन यद्गजत्वे ऽप्यनुस्मृतिः ॥ १२ ॥