TEXT
यस्यामु ह वा एते षडिन्द्रियनामानः कर्मणा दस्यव एव ते. तद्यथा पुरुषस्य धनं यत्किञ्चिद्धर्मौपयिकं बहुकृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो यो ऽसौ धर्मस्तं तु साम्पराय उदाहरन्ति. तद्धर्म्यं धनं दर्शनस्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पव्यवसायगृहग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य विलुम्पन्ति. ॥ २ ॥