TEXT
वेदाहमङ्ग परमस्य हि योगमायां यूयं भवश्च भगवानथ दैत्यवर्यः ।
पत्नी मनोः स च मनुश्च तदात्मजाश्च प्राचीनबर्हिरृभुरङ्ग उत ध्रुवश्च ।
इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि रघ्वम्बरीषसगरा गयनाहुषाद्याः ।
मान्धात्रलर्कशतधन्वनुरन्तिदेवा देवव्रतो बलिरमूर्त्तरयो दिलीपः ।
सौभर्युतङ्कशिबिदेवलपिप्पलाद सारस्वतोद्धवपराशरभूरिषेणाः ।
ये ऽन्ये विभीषणहनूमदुपेन्द्रदत्त पार्थार्ष्टिषेणविदुरश्रुतदेववर्याः ॥ ४५ ॥