TEXT
नभसो ऽथ विकुर्वाणाद् अभूत्स्पर्शगुणो ऽनिलः ।
परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् ।
वायोरपि विकुर्वाणात् कालकर्मस्वभावतः ।
उदपद्यत तेजो वै रूपवत्स्पर्शशब्दवत् ।
तेजसस्तु विकुर्वाणाद् आसीदम्भो रसात्मकम् ।
रूपवत्स्पर्शवच्चाम्भो घोषवच्च परान्वयात् ।
विशेषस्तु विकुर्वाणाद् अम्भसो गन्धवानभूत् ।
परान्वयाद्रसस्पर्श शब्दरूपगुणान्वितः ॥ २९ ॥