TEXT
ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणः पतिम् ।
इन्द्रमिन्द्रियकामस्तु प्रजाकामः प्रजापतीन् ।
देवीं मायां तु श्रीकामस् तेजस्कामो विभावसुम् ।
वसुकामो वसून्रुद्रान् वीर्यकामो ऽथ वीर्यवान् ।
अन्नाद्यकामस्त्वदितिं स्वर्गकामो ऽदितेः सुतान् ।
विश्वान्देवान्राज्यकामः साध्यान्संसाधको विशाम् ।
आयुष्कामो ऽश्विनौ देवौ पुष्टिकाम इलां यजेत् ।
प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ ।
रूपाभिकामो गन्धर्वान् स्त्रीकामो ऽप्सर उर्वशीम् ।
आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम् ।
यज्ञं यजेद्यशस्कामः कोशकामः प्रचेतसम् ।
विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम् ॥ ७ ॥